स्वकर्मविषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः
शर्वर्यन्ते प्रसूतानां पुनस्तेभ्यो दधात्यजः
पञ्च कर्तॄन् हि स तदा मनसा व्यसृजत्प्रभुः
औषधीः प्रतिसंधत्ते रुद्रः क्षीणः पुनः पुनः
त्रिभिरेव कपालैस्तु त्र्यंबकैरोषधीक्षये
गायत्रीं चैव त्रिष्टुप् च जगती चैव ताः स्मृताः
ताभिरेकत्वभूता भिस्त्रिविधाभिः स्ववीर्यतः
त्र्यंबकः स पुरोडाशस्तेनेह त्र्यंबकःस्मृतः
आकृतिः सुरुचे रूपं रुचिः श्रद्धाकरः स्मृतः
अथास्य सृजतः सर्गं प्रजानां परिवृद्धये
ततः स विदधे बुद्धिमर्थनिश्चयगा मिनीम्
रजः सत्त्वं परित्यज्य वर्तमानां स्वकर्मतः
तमश्च व्यनुदत्पश्चाद् रजसातु समावृणोत्
अधर्माचरणा त्तस्य हिंसा शोको व्यजायत
ततः स भगवानासीत् प्रीतश्चैतं हि शिश्रिये
नारी परमकल्याणी सर्वभूतमनोहरा
शतरूपेति सा प्रोक्ता सा प्रोक्तैव पुनः पुनः
प्रक्रियायां यथा तुभ्यं त्रेतामध्ये महात्मनः
ततो ऽन्यान्मानसान्पुत्रानात्मनः सदृशो ऽसृजत
दक्षमत्रिं वसिष्ठं च निर्ममे मानसान्सुतान्
ब्रह्मा यतात्मकानां तु सर्वेषामात्मयोनिनाम्
प्रजापतिं रुचिं चैव पूर्वेषामेव पूर्वजौ
मनसस्तु रुचिर्नाम जज्ञे जो ऽव्यक्तजन्मनः
प्राणाद्दक्षं सृजन्ब्रह्मा चक्षुर्भ्यां तु मरीचिनम्
शिरसोंगिरसं चैव श्रोत्रादत्रिं तथैव च
समानजो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम्
धर्मस्तेषां प्रथमजो देवतानां स्मृतस्तु वै
गृहमेधिपुराणास्ते धर्मस्तैः प्राक् प्रवर्त्तितः
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः