ययौ तेनाभ्यनुज्ञातः साकेतनगरं प्रति
न्यवेदयच्च वृत्तान्तं मुनेस्तेषां तथान्मनः
अतः परमनुष्ठेयमब्रवीत्किं मयेति च
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्थाश्वानयनं नाम चतुष्पञ्चाशत्तमो ऽध्यायः
अभिनन्द्याशिषात्यर्थं लालयन्प्रशशंस ह
उपाक्रमत तं यज्ञे विधिवद्वेदपारगैः
सम्यगौर्ववसिष्ठाद्यैर्मुनिभिः संप्रवर्त्तितः
सुसमृद्धं यथाशास्त्रं यज्ञे सर्वं बभूव ह
क्रमात्समापयामासुर्यजमानपुरस्सराः
यथावद्दक्षिणां चैव ऋत्विजां प्रददौ तदा
तत्काङ्क्षितादभ्यधिकं प्रददौ वसु सर्वशः
क्षमापयामास गुरून्सदस्यान्प्रणिपत्य च
वारकीयाकदंबैश्च सूतमागधवन्दिभिः
दोधूयमानचमरो वालव्यजनराजितः
स गत्वा सरयूतीरं यथाशाश्त्रं यथाविधि
एवं स्नात्वा सपत्नीकः सुहृद्भिर्ब्राह्मणैः सह
मङ्गल्यैर्वेदघोषैश्च सह विप्रजनेरितैः
प्रविवेश पुरीं रम्यां हृष्टपुष्टजनायुतम्
सिक्तसंमृष्टभूभागापणशोभासमन्विताम्
स तत्रागरुधूपोत्थगन्धामोदितदिङ्मुखम्
लाजवर्षेण सानन्दं वीक्षमाणश्च नागरैः
संभाव्यमानः शनकैर्जगम स्वपुरं प्रति
सम्यक्संभावयामास सुहृदो ब्राह्मणानपि
सभायां राजशार्दूलो रेमे शक्र इवापरः
सगरः सह भार्याभ्यां रेमे नृपवरोत्तमः
वसिष्ठानुमते राजा यौवराज्ये ऽभ्यषेचयत्
स प्रियो ऽभवदत्यर्थमुदारैश्च गुणैर्नृपः
नवं च शुक्लपक्षादौशीतांशुमचिरोदितम्
भार्याभ्यामनुरूपाभ्यां रममाणो ऽवसच्चिरम्
पालयामास वसुधां सशैलवनकाननाम्