सो ऽहं तस्य नियोगेन त्वत्प्रसादाभिकाङ्क्षया
इति तद्वचनं श्रुत्वा योगीन्द्रप्रवरो मुनिः
स्वागतं भवतो वत्स दिष्ट्या च त्वमिहागतः
अधिक्षिप्तो ऽस्य यज्ञो ऽपि प्रागतः संप्रवर्त्तताम्
दास्ये सुदुर्लभमपि त्वद्भक्तिपरितोषितः
पापानां मरणं त्वेषां न च शोचितुमर्हसि
वरं ददासि चेन्मह्यं वरये त्वां महामुने
त्वद्रोषपावकप्लुष्टाः पितरो ये ममाखिलाः
ब्रह्मदण्डहतानां तु न हि पिण्डोदकक्रियाः
विद्यते पितृसालोक्यं न खलु श्रुतिचोदितम्
वरेणानेन भगवन्कृतकृत्यो भावाम्यहम्
येनोद्धारणमेतेषां वह्नेः कोपस्य वै भवेत्
निरयोद्धारणं तेषां त्वया वत्स न शक्यते
कालः प्रतीक्ष्यतां तावद्यावत्त्वत्पौत्रसंभवः
राजा भगीरथो नाम सर्वधर्मार्थतत्त्ववित्
आनेष्यति दिवो गङ्गां तपस्तप्त्वा महाद्ध्रुवम्
प्राप्नुवन्ति गतिं स्वर्गे भवतः पितरो ऽखिलाः
भागीरथीति लोके ऽस्मिन्सा विख्यातिमुपैष्यति
निरयादपि संयाति देही स्वर्लोकमक्षयम्
पितामहाय चैवैनमश्वं संप्रतिपादय
ययौ तेनाभ्यनुज्ञातः साकेतनगरं प्रति
न्यवेदयच्च वृत्तान्तं मुनेस्तेषां तथान्मनः
अतः परमनुष्ठेयमब्रवीत्किं मयेति च
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्थाश्वानयनं नाम चतुष्पञ्चाशत्तमो ऽध्यायः
अभिनन्द्याशिषात्यर्थं लालयन्प्रशशंस ह
उपाक्रमत तं यज्ञे विधिवद्वेदपारगैः
सम्यगौर्ववसिष्ठाद्यैर्मुनिभिः संप्रवर्त्तितः
सुसमृद्धं यथाशास्त्रं यज्ञे सर्वं बभूव ह
क्रमात्समापयामासुर्यजमानपुरस्सराः
यथावद्दक्षिणां चैव ऋत्विजां प्रददौ तदा