देवास्तपस्विनश्चैव बभूवुर्विगतज्वराः
अयोध्या मगमद्राजन्देवलोकाद्यदृच्छया
अर्घ्यपाद्यादिभिः सम्यक्पूजयामास शास्त्रतः
नारदो राजशार्दूलमिदं वचनमब्रवीत्
ब्रह्मदण्डहताः सर्वे विनष्टा नृपसत्तम
केनाप्य लक्षितः क्वापि नीतो विधिवशाद्दिवि
प्रालभन्त न ते क्वापि तत्प्रवृत्तिं चिरान्नृप
सागरास्ते समारभ्य प्रचख्नुर्वसुधातलम्
समीपे तस्य योगीन्द्रं कपिलं चमहामुनिम्
कपिलं कोपयामासुरश्वहर्त्तायमित्यलम्
इन्धनीभूतदेहास्ते पुत्राः संक्षयमागताः
यतस्ते तेन राजेन्द्र न शोकं कर्तुमर्हसि
नष्टं मृतमतीतं च नानुशोचन्ति पण्डिताः
तुरगानयनार्थाय नियुङ्क्ष्व नृपसत्तम
क्षणेन पश्यतां तेषां नारदो ऽन्तर्दधे मुनिः
दुःखशोकपरातात्मा दध्यौ चिरमुदारधीः
वसिष्ठः प्राह राजानं सांत्वयन्देशकालवित्
लभते हृदि चेच्छोकः प्राप्तं धीर तया फलम्
मन्वानो ऽनन्तरं कृत्यं कर्तुमर्हस्यसंशयम्
धृतिं सत्त्वं समालंब्य तथेति प्रत्यभाषत
ब्रह्मक्षत्त्रसभामध्ये शनैरिदमभाषत
पतिताः पापकर्माणो निरये शाश्वतीः समाः
त्वदायत्तमशेषं मे श्रेयो ऽमुत्र परत्र च
तुरगानयनार्थाय यत्नेन महातान्वितः
आदाय तुरगं वत्स शीघ्रमागन्तुमर्हसि
तथेत्युक्त्वा महाबुद्धिः प्रययौ कपिलान्तिकम्
प्रश्रयावनतो भूत्वा शनैरिदमुवाच ह
कोपं च संहर क्षिप्रं लोकप्रक्षयकारकम्
प्रशान्तिमुपयाह्याशुलोकाः संतु गतव्यथाः
ये त्वत्क्रोधाग्निनिर्दग्धास्तत्संततिमवेहि माम्