शिखाभिरुर्वीशसुतानशेषतो ददाह सद्यः सुर विद्विषस्तान्
सागरांस्तानशेषेण भस्मसादकरोत्स तान्
जज्वलुः सहसा दावे तरवो नीरसा इव
अन्योन्यमबुवन्देवा विस्मिता ऋषिभिः सह
दुरन्तः खलु लोके ऽस्मिन्नराणामसदात्मनाम्
युगपद्विलयं प्राप्ताः सहसैव तृणाग्निवत्
आजीवान्तमिमे हर्तु दिष्ट्या संक्षयमागताः
इह कृत्वाशुभं कर्म कःपुमान्विन्दते सुखम्
ब्रह्मदण्डहताः पापा निरयं शाश्वतीः समाः
दुरतश्च परित्याज्यमितरल्लोकनिन्दितम्
नाचरेत्कस्यचिद्द्रोहमनित्यं जीवनं यतः
संसारश्चातिनिस्सारस्तत्कथं विश्वसेद्बुधः
मुनिक्रोधेन्धनीभूता विनेशुः सगरात्मजाः
अवापुर्निरयं सद्यः सागरास्ते स्वकमभिः
क्षणेन लोकानखिलानुद्यतो दग्धुमञ्जसा
तुष्टुवुस्ते महात्मानं क्रोधाग्निशमनार्थिनः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सगरचरितेसागराविनाशो नाम त्रिपञ्चशत्तमो ऽध्यायः
नो चेदकाले लोको ऽयं सकलस्तेन दह्यते
क्षमस्व संहर क्रोधं नमस्ते विप्रपुङ्गव
तूर्णमेव क्षयं निन्ये क्रोधाग्निमतिभैरवम्
देवास्तपस्विनश्चैव बभूवुर्विगतज्वराः
अयोध्या मगमद्राजन्देवलोकाद्यदृच्छया
अर्घ्यपाद्यादिभिः सम्यक्पूजयामास शास्त्रतः
नारदो राजशार्दूलमिदं वचनमब्रवीत्
ब्रह्मदण्डहताः सर्वे विनष्टा नृपसत्तम
केनाप्य लक्षितः क्वापि नीतो विधिवशाद्दिवि
प्रालभन्त न ते क्वापि तत्प्रवृत्तिं चिरान्नृप
सागरास्ते समारभ्य प्रचख्नुर्वसुधातलम्
समीपे तस्य योगीन्द्रं कपिलं चमहामुनिम्
कपिलं कोपयामासुरश्वहर्त्तायमित्यलम्