प्रयास्यध्वमधर्मिष्ठाः सर्वे ऽनावृत्तये पुनः
तुरगेण विना सत्यं नेहाग मनमस्ति वः
ऊचुर्न दृश्यते ऽद्यापि तुरगः किं प्रकुमह
न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित्
विभज्य रवात्वा पातालं विविशाम तुरङ्गमम्
निचख्नुर्भूमिमंबोधेस्तटा दारभ्य सर्वतः
चुक्रुशुश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम्
भूमेर्योजनसाहस्रं योजयामासुरंबुधौ
चरन्तमश्वं पाताले ददृशुर्नृपनन्दनाः
संतोषाज्जहसुः केचिन्ननृतुश्च मुदान्विताः
वृद्धं पद्मासनासीनं नासाग्रन्यस्तलोचनम्
स्वतेजसाभिसरता परिबूर्णेन सर्वतः
स्वान्तप्रकाशिताशेषविज्ञानमयविग्रहम्
आरूढयोगं विधिवद्ध्येयसंलीनमानसम्
विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम्
ततो ऽयमश्वहर्त्तेति सागरा कालचोदिताः
ततस्तं परिवार्योचुश्वोरो ऽयं नात्र संशयः
तं प्राकृतवदासीनं ते सर्वे हतवुद्धयः
ततो मुनिरदीनात्मा ध्यानभङ्गप्रधर्षितः
प्रचचाल दुराधर्षो धर्षितस्तैर् दुरात्मभिः
तस्य चार्णवगंभीराद्वपुषः कोपपावकः
शुशुभे धर्षणक्रोधपरामर्शविदीपितः
तदाक्षिणी क्षणं राजन्राजेतां सुभृशारुणे
ततो ऽप्युद्वर्त्तमानाभ्यां नेत्राभ्यां नृपनन्दनान्
क्रुद्धस्य तस्यनेत्राभ्यां सहसा पावकार्चिषः
सधूमकवलोदग्राः स्फुलिङ्गौघमुचो मुहुः
व्यालोदरौग्रकुहरा ज्वाला स्तन्नेत्रनिर्गताः
क्रोधाग्निः सुमहाराज ज्वालावव्याप्तदिगन्तरः
दग्धांश्चकार तान्सर्वानावृण्वानो नभस्तलम्
महीरजोभिश्च नितान्तमुद्धतैः समावृतं लोक मभूद्भृशातुरम्