उपद्रुतं जगत्सर्वंसागरैः संप्रणश्यति
विष्णोरंशेन योगीन्द्रस्वरूपी भुवि संस्थितः
स्वेच्छया ते धृतो देहो न तु त्वं तपतां वरः
विधातुं स्वेच्छया ब्रह्मन्भवाञ्छक्रोत्यसंशयम्
परित्राता त्वमस्माकं विनिवर्त्तय चापदम्
सागरैर्दह्यमानानां लोकत्रयनिवासिनाम्
त्रातुमर्हसि तस्मात्त्वं लोकानस्मांश्च सुव्रत
इत्युक्तः सकलैर्देवैरुन्मील्य नयने शनैः
स्वकर्मणैव निर्दग्धाः प्रविनङ्क्ष्यन्ति सागराः
अहं तु कारणं तेषां विनाशाय दुरात्मनाम्
मम क्रोधाग्नि विप्लुष्टाः सागराः पापचेतसः
तस्माद्गतज्वरा देवा लोकाश्चैवाकुतोभयाः
तद्यूयं निर्भया भूत्वा व्रजध्वं स्वां पुरीं प्रति
कपिलेनैवमुक्तास्ते देवाः सर्वे सवासवाः
एतस्मिन्नन्तरे राजा सगरः पृथिवीपतिः
आहृत्य सर्वसंभारान्वसिष्ठानुमते तदा
दीक्षां प्रविष्टो नृपतिर्हयसंचारणाय वै
संचारयित्वा तुरगं परीत्य पृथिवीतले
ततस्ते पितुरादेशात्तमादाय तुरङ्गमम्
विधिचोदनयैवाश्वः स भूमौ परिवर्तिततः
पृथिवीभूभुजा तेन पूर्वमेव विनिर्जिता
ततस्ते राजतनया निस्तोये लवणांबुधौ
भूतले विविशुर्हृष्टाः परिवार्य तुरङ्गमम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धातपादे सगरवरिते ऽश्वमोचनं नाम द्विपञ्चाशत्तमो ऽध्यायः
जहारं तुरगं वायुस्तत्क्षणेन रसातलम्
अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः
परीत्य वसुधां सर्वां प्रमार्गन्तस्तुरगमम्
अपश्यन्तो यज्ञपशुं दुःखं महदवाप्नुवन्
दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन्
रक्ष्यमाणो ऽपि पश्यद्भिः केनापि तुरगो हृतः