बभूव काले केशिन्यां तनयो ऽन्वयवर्द्धनः
वायुभूतो ऽविशद्देहं राजपुत्रस्य भूपते
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम्
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः
बहुशः प्रतिषिद्धो ऽपि पित्रा तेन महात्मना
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः
लोकापवादभीरुत्वाद्विषयानत्यजत्तदा
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरिते ऽसमञ्जसत्यागो नामैकपञ्चाशत्तमो ऽध्यायः
धर्मशीले तदा वाले चकारांशुमति प्रभुः
ववृधुः सघशः सर्वे परस्परमनुव्रताः
अधर्मशीला नितरामेकघर्माण एव च
अधृष्याः सर्वभूतानां जनोपद्रवकारिणः
बबाधिरे जगत्सर्वमसुरा इव कामतः
निःस्वाध्याय वषट्कारं बभूवार्तं विशेषतः
प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः
तपः समाधिभङ्गश्च प्रबभूव तपस्विनाम्
दुःशेन महाताविष्टा विरिञ्जभवनं ययुः
शशंसुः सकलं तस्मै सागराणां विचेष्टितम्
क्षणमन्तर्मना भूत्वा जगाद सुरसत्तमः
विनङ्क्ष्यन्त्यचिरेमैव सागरा नात्र संशयः
निमित्तमात्रमन्यत्तु स एव सकलेशिता
सर्वैर्भवद्भिरधुना तत्कर्त्तव्यमतं द्रितैः
जातो जगद्धितार्थाय योगीन्द्रप्रवरो भुवि
ध्यायन्नास्ते ऽधुनांऽभोधावेकान्ते तत्र कुत्र चित्
ध्यानाव सानमिच्छन्तस्तिष्ठध्वं तदुपह्वरे
नत्वा तस्मै वदिष्यध्वं स वः श्रेयो विधास्यति
कुरुध्वं च तथा यूयं प्रवृत्तिं विबुधोत्तमाः
गत्वा तं विबुधश्रेष्टं ते कृताञ्जलयो ऽब्रुवन्