अजायत सुतः श्रीमानंशुमानिति विश्रुतः
प्रीणयामास सुत्दृदः स्वपितामहमेव च
आविष्टो नष्टचेष्टो ऽभूत्स पिशाचेन केन चित्
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान्
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः
क्षुधितो ऽहं चिरादस्मिन्निवसन्निधिपालकः
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया
आदत्त च निधिं तं तु पिशाचेनानुमोदितः
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप
अपनीतधनः सो ऽपि ममार व्यथितः क्षुधा
बभूव काले केशिन्यां तनयो ऽन्वयवर्द्धनः
वायुभूतो ऽविशद्देहं राजपुत्रस्य भूपते
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम्
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः
बहुशः प्रतिषिद्धो ऽपि पित्रा तेन महात्मना
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः
लोकापवादभीरुत्वाद्विषयानत्यजत्तदा
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरिते ऽसमञ्जसत्यागो नामैकपञ्चाशत्तमो ऽध्यायः
धर्मशीले तदा वाले चकारांशुमति प्रभुः
ववृधुः सघशः सर्वे परस्परमनुव्रताः
अधर्मशीला नितरामेकघर्माण एव च
अधृष्याः सर्वभूतानां जनोपद्रवकारिणः
बबाधिरे जगत्सर्वमसुरा इव कामतः
निःस्वाध्याय वषट्कारं बभूवार्तं विशेषतः
प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः
तपः समाधिभङ्गश्च प्रबभूव तपस्विनाम्
दुःशेन महाताविष्टा विरिञ्जभवनं ययुः
शशंसुः सकलं तस्मै सागराणां विचेष्टितम्