वरयामास तनयं पुत्रानन्यास्तथा परा
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम्
आनन्दितः पौरजनै रेमे परमया मुदा
राज्ञे प्रावोचतां गर्भं मुदा परमया युते
सह संतोषसंपत्त्या पित्रोः पौरजनस्य च
असूयताग्निगर्भाभं कुमारममितद्युतिम्
असमञ्चस इत्येव नाम तस्या करोन्नृपः
संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः
सम्यक् संभावितो राज्ञा तमुवाच त्वरान्वितः
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक्
यथोक्तसंख्या पत्राणां भविष्यति न संशयः
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप
राजा च तत्तथा चक्रे यथौर्वेण समीरितम्
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम्
ववृधुः संघशो राजन्षष्टिसाहस्रसंख्याया
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम्
सचाप्यानन्दयामास स्वगुणैः सुहृदो ऽखिलान्
अजायत सुतः श्रीमानंशुमानिति विश्रुतः
प्रीणयामास सुत्दृदः स्वपितामहमेव च
आविष्टो नष्टचेष्टो ऽभूत्स पिशाचेन केन चित्
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान्
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः
क्षुधितो ऽहं चिरादस्मिन्निवसन्निधिपालकः
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया
आदत्त च निधिं तं तु पिशाचेनानुमोदितः
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप
अपनीतधनः सो ऽपि ममार व्यथितः क्षुधा