वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः
वने ऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम्
भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव
पितृपिण्डप्रदानेन सह संरक्षणं भुवः
नानयो ऽपहर्त्तां लोकंऽस्मिन् ममेति त्वामुपागतः
उवाच भगवानौर्वः सनिदेशमिदं वचः
अवाप्स्यति ततो ऽभीष्टं भवान्नात्र विचारमा
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत्
दास्यामि तं न संदेहो यद्यपि स्यात्सुदुर्ल्लभम्
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम्
राज्ञश्चप्रियकामेन वरो दत्तो ऽयमीप्सितः
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम
तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम्
वरयामास तनयं पुत्रानन्यास्तथा परा
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम्
आनन्दितः पौरजनै रेमे परमया मुदा
राज्ञे प्रावोचतां गर्भं मुदा परमया युते
सह संतोषसंपत्त्या पित्रोः पौरजनस्य च
असूयताग्निगर्भाभं कुमारममितद्युतिम्
असमञ्चस इत्येव नाम तस्या करोन्नृपः
संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः
सम्यक् संभावितो राज्ञा तमुवाच त्वरान्वितः