राजानमब्रवीदौर्वः शनैर्मृद्वक्षरं वचः
अपिधर्मेण सकलाः प्रजास्त्वं परिरक्षसि
फलन्ति हि गुणास्तुभ्यं त्वया सम्यक्प्रचोदिताः
दिष्ट्या च सकलं राज्यं त्वया धर्मेण रक्ष्यते
न तं रक्षति किं धर्मः स्वयं येनाभिरक्षितः
सबलोनगरीं प्राप्तः कृतदारो भवानिति
भवन्ति सुखिनो नूनं तेनैवेह परत्र च
भार्याभ्यां सहितो राजन्समायातो ऽसि मे वद
कृताञ्जलिपुटो भूत्वा प्राह तं मधुरं वचः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरस्यौर्वाश्रमगमनं नाम पञ्चशत्तमो ऽध्यायः
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः
सो ऽहं कथमशक्तः स्यां सकलारिविनिग्रहे
न ह्यन्यमभिजानामि त्वामृते पितरं च मे
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः
इह तस्यैकदेशो ऽपि दृश्यते विस्मयप्रदः
पिबत्यंभः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून्
प्रविष्टो ऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः
वने ऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम्
भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव
पितृपिण्डप्रदानेन सह संरक्षणं भुवः
नानयो ऽपहर्त्तां लोकंऽस्मिन् ममेति त्वामुपागतः
उवाच भगवानौर्वः सनिदेशमिदं वचः
अवाप्स्यति ततो ऽभीष्टं भवान्नात्र विचारमा