अनन्यशासनामुर्वीमन्वशासदरिन्दमः
न चापपात मुत् पुत्रमुखालोकनजृंभिता
अहो कष्टमपुत्रो ऽहमस्मिन्वंशे ध्रुवं तु यत्
निरयादपि सत्पुत्रे संजाते पितरः किल
महता सुकृतेनापि संप्राप्तस्य दिवं किल
पिता तु लोकमुभयोः स्वर्लोकं तत्पितामहाः
अनपत्यतयाहं तु पुत्रिणां या भवेद्गतिः
पदादैन्द्रात्किलाभिन्नमृद्धं राज्यमखण्डितम्
इदं मत्पूर्वजैरेव सिंहासनमधिष्ठितम्
तस्मादौर्वाश्रममहं गत्वा तं मुनिपुङ्गवम्
गत्वा तस्मै त्वपुत्रत्वं विनिवेद्य महात्मने
इति सञ्चिन्त्य मनसा सगरोराजसत्तमः
स मन्त्रिप्रवरे राज्यं प्रतिष्ठाप्य ततो वनम्
जगाम रथघोषेण मेघनादातिशङ्किभिः
प्रियाभ्यां दर्शयन्राजन्सारङ्गांस्तिमितेक्षणान्
वृक्षान्पुष्पफलोपेतान्विलोक्य मुदितो ऽभवत्
सुस्निग्धपल्लवच्छायैरभितः संभृतं नगैः
श्रोत्राभिरामजनकैस्संघुष्टं सर्वतोदिशम्
प्रसूनस्तबकानम्रबल्लरीवेल्लितद्रुमम्
उन्मत्तशिखिसारङ्गकूजत्पक्षिगणान्वितम्
संचरत्किन्नरीद्वन्द्वविराजद्वनगह्वरम्
सुस्वरैरावृतोपान्तैः सरोभिः परिवारितम्
शनैः परिवहन्मन्दमारुतापूर्णदिङ्मुखम्
गच्छन्रथेनाथ नृपः प्रहर्षं परमं ययौ
भार्याभ्यां सहितः श्रीमान्वाहादवरुरोह वै
आससादाश्रमोपान्तं महर्षेर्भावितात्मनः
मुनिं द्रष्टुं विनीतात्मा प्रविवेशाश्रमं तदा
ननाम शिरसा राजा भार्याभ्यां सहितो मुदा
उपविशेति प्रेम्णा वै सह ताभ्यां समादिशत्
आतिथ्येन च वन्येन सभार्यं तमतोषयत्