वसिष्टे तु गते राजा सगरःप्रीतमानसः
भार्याभ्यां समुपेताभ्यां रूपशीलगुणादिभिः
सुमतिः केशिनी चोभे विकसद्वदनांबुजे
नीलकुञ्चितकेशाढ्ये सर्वाभरणभूषिते
प्रिये सन्निहिते तस्य नित्यं प्रियहिते रते
स चापि भरणोत्कर्षप्रतीतात्मा महीपतिः
अन्येषां भुवि राज्ञां तु राजशब्दो न चाप्यभूत्
अल्पो ऽपि धर्मः सततं यथा भवति मानसे
अलुब्धमानसोर्ऽथं च भेजे धर्ममपीडयन्
तदर्थमेव राजेन्द्र कामं चापीडयंस्तयोः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरदिग्विजयो नामैकोनपञ्चाशत्तमो ऽध्यायः
सप्तद्वीपवतीं सम्यक्साक्षाद्धर्म इवापरः
स्थापयित्वा यथान्यायं ररक्षाव्याहतेन्द्रियः
वर्णाश्चैवानुलोम्येन तद्वदर्थेषु च क्रमात्
सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति
तेष्वसंख्या जनपदाश्चातुर्वर्ण्यजनावृताः
देशाश्चावासभुयिष्टा नृपे तस्मिन्प्रशासति
प्रजानां सर्ववर्णेषु प्रारंभाः फलदायिनः
पुरुषार्थोपपन्नानि कर्माणि च तदा नृणाम्
अन्योन्यप्रियकामाश्च राजभक्तिसमन्विताः
प्रजासु कश्चिल्लुब्धो वा कृपणो वापि नाभवत्
गुरुषु प्रणता नित्यं सद्विद्याव्यसनादृताः
निसर्गात्खलसंसर्गविरता धर्मतत्पराः
एवं सुबाहुतन्ये स्वप्रतापार्जितां महीम्
शालिभूयिष्ठसस्याढ्या सदैव सकला मही
बभूव नृपशार्दूले तस्मिन् राज्यानि शासति
संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता
द्रष्टुं काङ्क्षितराजकाः सतनयाविज्ञापयन्तो मुहुर्द्वास्थैरेव नरेश्वराय सुचिरं वत्स्यन्तमन्तःपुरे
किणीकृतौ विराजेते चरणौ तस्य भूभुजः
रत्नैर्भाति सभा तस्य गुहा सोमे रवी यथा