रक्षणाद्रक्ष इत्युक्तं क्षपणाद्यक्ष उच्यत
ते शीर्णा व्युत्थिता ह्यूर्द्धमारो हन्तः पुनः पुनः
बालात्मना स्मृता व्याला हीनत्वादहयः स्मृताः
तेषां लयः पृथिव्यां यः सूर्याचन्द्रमसौ घनाः
स तान्सर्प्पान् सहोत्पन्नानाविवेश विषात्मकः
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः
गायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः
पिबतो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः
छन्दतश्चैव छन्दासि वयांसि वयसासृजत्
मुखतोजाः सृजन्सो ऽथ वक्षसश्चाप्यवीः सृजन्
पादतो ऽश्वान्समातङ्गान् रासभान् गवयान्मृगान्
ओषध्यः फल मूलिन्यो रोमभ्यस्तस्य जज्ञिरे
अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखेपुरा
एते ग्राम्याः समृताः सप्त आरण्याः सप्त चापरे
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः
मर्कटः सप्तमो ह्येषां चारण्याः पशवस्तु ते
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
बृहत्साम तथोक्तं च दक्षिणात्सो ऽसृजन्मुखात्
वैरूप्यमतिरात्रं च पश्चिमात्सो ऽसृजन्मखात्
अनुष्टुभं सवैराजं चतुर्थादसृजन्मुखात्
सृष्ट्वासौ भगवान्देवः पर्जन्यमितिविश्रुतम्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान्
सृष्ट्वा यक्षपिशाचांश्च गन्धर्वप्सरसस्तदा
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनःपुनः
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
विनियोगं च भूतानां धातैव व्यदधात्स्वयम्
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः
न चैव तु पृथग्भावमधिकेन ततो विदुः