तत्पादौ संस्पृशन्मूर्ध्ना प्रणाममकरोत्तदा
ससंभ्रमं समुत्थाय पर्यष्वजत चात्मजम्
स तां संभाव्य कथया तत्र स्थित्वा चिरादिव
ततः सानुचरो राजा श्वेतव्यजनवीजितः
संप्रविश्य सभां दिव्यामनेकनृपसेविताम्
सिंहासने शुभे दिव्ये निषसाद नरेश्वरः
नानाविधाः कथाः कुर्वन्स तत्र नृपसत्तमः
प्रतिज्ञां पालयित्वैवं जितदिङ्मण्डलो नृपः
स्वप्रभावजिताशेषवैरिर्दिङ्मण्डलाधिपः
स्वर्यातस्य पितुः पूर्वं परिभावममर्षितः
सप्तद्वीपाब्धिनगरग्रामायतनमालिनीम्
एवं गच्छति काले च वसिष्ठो भगवानृषिः
तमायान्तमतिप्रेक्ष्य मुनिवर्यं ससंभ्रमः
अर्ध्यपाद्यादिभिः सम्यक्पूजयित्वा महामतिः
आशीर्भिर्वर्द्धयित्वा तं वसिष्ठः सगरं तदा
उपाविशत्ततो राजा काञ्चने परमासने
आपवस्तुनृपश्रेष्ठमुपासीनमुपह्वरे
कुशलं ननु ते राजन्वाह्येष्वाभ्यन्तरेषु च
दिष्ट्या च विजिताः सर्वे समग्रबलवाहनाः
दिष्ट्यारूढप्रतिज्ञेन मम मानयता वचः
तान्विजित्येतराञ्जेतुं पुनर्दिग्विजयेच्छया
जितदिङ्मण्डलं भूयः श्रुत्वा त्वां नगरस्थितम्
वसिष्ठेनैवमुक्तस्तु सगरस्तालजङ्घजित्
कुशलं ननु सर्वत्र महर्षे नात्र संशयः
भवान्ध्यायति कल्याणं मनसा यस्य संततम्
भवतानुगृहीतो ऽस्मि कृतार्थश्चाधुना कृतः
यन्मह्यमाह भगवान्विपक्षविजयादिकम्
भवत्प्रसादतः सर्वं मन्ये प्राप्तं महीक्षिताम्
अनल्पी कुरुते फल्यं यन्मे व्यवसितं भवान्
एवं संभावितः सम्यक्सगेरण महामुनिः