धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः
क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः
एता अद्यापि सद्भिः सततमवमता जातयो ऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमो ऽध्यायः
बलेन महता युक्तो विदर्भानभ्यवर्त्तत
केशिन्याख्यामनुपमामनुरूपां न्यवेदयत्
शुभे मुहूर्ते केशिन्याः पार्णिं जग्राह भूमिपः
विदर्भराज्ञा संमन्त्र्य ततो गन्तुं प्रजक्रमे
निष्क्रम्य तत्पुराद्राजा शूरसेनानुपेयिवान्
धनौघैस्तर्पितस्तैश्च मधुराया विनिर्ययौ
करैश्च स नृपान्सर्वांश्चक्रे संकेतगानपि
अनुजज्ञे नरपतिः समस्ताननुयायिनः
शनैरपीडयन्देशान्स्वराज्यमुपजग्मिवान्
नानाजनपदैस्तूर्ममयोध्यां समुपागमत्
नगरीं तामलञ्चक्रे महोत्सवसमुत्सुकः
सिक्तसंमृष्टभूभागा पूर्णकुम्भशतावृता
सर्वत्रागरुधूपाञढ्या विचित्रकुसुमोज्ज्वला
प्रसूनलाजवर्षैश्च स्वलङ्कृतमहापथा
संबूजिताशेषवास्तुदेवतागृहमालिनी
पौरजानपदैर्त्दृष्टैः सर्वतः समलङ्कृता
वारकाताकदबैश्च नगरीभिश्च सवृताः
स तैः समेत्य नृपतिर्लब्धाशीर्वाद सक्त्क्रियः
नानावादित्रसंघोषमिश्रेण मधुरेण च
आनन्दयन्प्रजाः सर्वाः प्रविवेश पुरोत्तमम्
संस्तूयमानः सुभृशं सूतमागधवन्दिभिः
कलतालरवोन्मिश्रवीणावेणुतलस्वनैः
अन्वीयमानो विलसच्छ्वेतच्छत्रविराजितः
पुरीमयोध्यामविशत्स्वपुरीमिव वासवः
जगाम मध्येनगरं गृहं श्रीमदलङ्कृतम्
प्रविवेश गृहं मातुर्हृष्टपुष्टजनायुतम्