तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि
शनैर्विलोकयामास शरणं समुपागतान्
दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः
उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः
समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः
गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे
श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान्
यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान्
वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान्
ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः
धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः
क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः
एता अद्यापि सद्भिः सततमवमता जातयो ऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमो ऽध्यायः
बलेन महता युक्तो विदर्भानभ्यवर्त्तत
केशिन्याख्यामनुपमामनुरूपां न्यवेदयत्
शुभे मुहूर्ते केशिन्याः पार्णिं जग्राह भूमिपः
विदर्भराज्ञा संमन्त्र्य ततो गन्तुं प्रजक्रमे
निष्क्रम्य तत्पुराद्राजा शूरसेनानुपेयिवान्
धनौघैस्तर्पितस्तैश्च मधुराया विनिर्ययौ
करैश्च स नृपान्सर्वांश्चक्रे संकेतगानपि
अनुजज्ञे नरपतिः समस्ताननुयायिनः
शनैरपीडयन्देशान्स्वराज्यमुपजग्मिवान्
नानाजनपदैस्तूर्ममयोध्यां समुपागमत्
नगरीं तामलञ्चक्रे महोत्सवसमुत्सुकः
सिक्तसंमृष्टभूभागा पूर्णकुम्भशतावृता
सर्वत्रागरुधूपाञढ्या विचित्रकुसुमोज्ज्वला
प्रसूनलाजवर्षैश्च स्वलङ्कृतमहापथा
संबूजिताशेषवास्तुदेवतागृहमालिनी
पौरजानपदैर्त्दृष्टैः सर्वतः समलङ्कृता