राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः
अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः
ततस्तान्प्रति सक्रोधः सगरः समरे ऽरिहा
वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम्
भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम्
संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत
कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः
द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि ते ऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः
क्रमेण नाशयामास तद्राज्यमरिकर्षणः
निजघान रुषाविष्टः पल्हवान्पारदानपि
दुद्रुवुः संघशो भीता हतशिष्टाः समन्ततः
इत्युच्चैः श्रावयाणो युधि निजचरितं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजाः सगरनरपतिः स्मारयामास भूपः
इक्ष्वाकूणां वसिष्ठं कुलगुरुमभितः सप्त राज्ञां कलेषु प्रख्याताः संप्रसूता नृपवररिपवः पारदाः पल्हवाद्याः
उपगम्याब्रुवन्सर्वे कृताञ्जलिपुटा नृपाः
सगरास्त्राग्निनिर्दग्धशरीराणां मुमूर्षताम्
तस्माद्भयाद्धि निष्क्रान्ता वयं जीवितकाङ्क्षिणः
केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गतः
यस्तं निवर्त्तयित्वास्मान्पालयेन्महतो भयात्
तद्वंशपूर्वजैर्भूपैस्त्वतप्रभावश्च तादृशः
भवन्निदेशं नात्येति वेलामिव महोदधिः
तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि
शनैर्विलोकयामास शरणं समुपागतान्
दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः
उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः
समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः
गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे
श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान्
यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान्
वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान्
ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः