पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम्
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः
सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम्
अयोध्यायामधिवस्न्पालयामास मेदिनीम्
वयसैव स बालो ऽभूत्कर्मणा वृद्धसंमतः
सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयो ऽनिशम्
शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः
रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात्
सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात्
मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम्
प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम्
दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते
विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति
विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान्
एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः
ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः
राज्ञां यत्र सहस्राणि स बलानि महाहवे
जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम्
समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः
राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः
अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः
ततस्तान्प्रति सक्रोधः सगरः समरे ऽरिहा
वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम्
भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम्
संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत
कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः
द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि ते ऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः
क्रमेण नाशयामास तद्राज्यमरिकर्षणः
निजघान रुषाविष्टः पल्हवान्पारदानपि