और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः
एवं प्रभावो नृपतिः कार्त्तवीर्यो ऽभवद्भुवि
यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत्
एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव
न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये
जामदग्न्यस्य च मुने किमन्यत्कथयामि ते
ततः स सगरो राजा कृताञ्जलिपुटो मुनिम्
सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे
इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः
स दीक्षितो वसिष्ठेन सगरो राजसत्तमः
पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम्
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः
सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम्
अयोध्यायामधिवस्न्पालयामास मेदिनीम्
वयसैव स बालो ऽभूत्कर्मणा वृद्धसंमतः
सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयो ऽनिशम्
शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः
रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात्
सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात्
मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम्
प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम्
दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते
विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति
विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान्
एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः
ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः
राज्ञां यत्र सहस्राणि स बलानि महाहवे
जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम्
समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः