शत्रुभिर्निर्जितो वृद्धः पलायनपरो ऽ भवत्
अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत्
शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम्
अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः
चितामारोपयद्भर्तू रुदती सा कलेवरम्
चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः
निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत्
पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम्
ततः सा सर्वदुःखानि नियम्य त्वन्मुखांबुजम्
सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा
और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः
एवं प्रभावो नृपतिः कार्त्तवीर्यो ऽभवद्भुवि
यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत्
एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव
न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये
जामदग्न्यस्य च मुने किमन्यत्कथयामि ते
ततः स सगरो राजा कृताञ्जलिपुटो मुनिम्
सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे
इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः
स दीक्षितो वसिष्ठेन सगरो राजसत्तमः
पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम्
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः
सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम्
अयोध्यायामधिवस्न्पालयामास मेदिनीम्
वयसैव स बालो ऽभूत्कर्मणा वृद्धसंमतः
सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयो ऽनिशम्
शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः
रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात्
सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात्