वाजिमेधं ततो राजन्नाजहार महाक्रतुम्
विश्वामित्रो ऽभवद्धोता रामस्य विदितात्मनः
भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः
पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः
स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः
अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम्
आहूय भृगुशार्दूलः सशैलवनकाननाम्
आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत्
हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा
चक्रे द्रव्यपरित्यागं तेषामनुमते तदा
तत्रापि पर्वतवरे तपश्चर्तुं समारभत्
ययुर्यथागतं सर्वे मुनयः शंसितव्रताः
तपो महत्समास्थाय तत्रैव न्यवसत्सुखी
सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु
चचार धरणी सम्यक् दुखैर्ःमुक्ताभवच्च सा
यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते
प्रसंगात्कथितः सम्यङ्नातिसंक्षेपविस्तरः
न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः
यत्पुरा सो ऽगमन्मुक्तिं रणे रामेण घातितः
पुत्रस्तस्य महाबाहुस्तालजङ्घो ऽभवन्नृप
तालजङ्घाभिधा येषां वीतिहोत्रो ऽग्रजो ऽभवत्
कालं महान्तमवसद्धिमाद्रिवानगह्वरे
तालजङ्घो ऽपतद्भूमौ मूर्छितो गाढवेदनः
रथमारोप्य वेगेन पलायनपरो ऽभवत्
कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः
जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत
वसंस्तदा निजं राज्यमापालयदरिन्दमः
अभ्याययौ महाराज तालजङ्घः पुरं तव
रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः
युयुधे तैर्नृपैः सर्वैर्वृद्धो ऽपि तरुणो यथा