वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम्
तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा
निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः
कालानुवृत्तं बलवान्नृलोको नात्र संशयः
शक्यते वत्स सर्वो ऽपि यतः शक्त्या स्वकर्मकृत्
शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम्
स चापि तद्वचः सर्वं प्रतिजग्राह सादरम्
प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम्
तपसे धृतसंकल्पो बभूव स महामनाः
पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा
परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः
परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः
जगाम तपसे राजन्बाह्मणैरभिसंवृतः
निवासमात्मनो राजन्कल्पयामास धर्मवित्
द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः
क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम्
अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः
तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः
हयमेधं महायज्ञमाहर्तुमुपचक्रमे
विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा
वाजिमेधं ततो राजन्नाजहार महाक्रतुम्
विश्वामित्रो ऽभवद्धोता रामस्य विदितात्मनः
भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः
पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः
स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः
अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम्
आहूय भृगुशार्दूलः सशैलवनकाननाम्
आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत्
हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा
चक्रे द्रव्यपरित्यागं तेषामनुमते तदा