निघ्नंश्चचार पृथिवीं वर्षद्वयमनारतम्
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता
तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मो ऽध्यायः
षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान्
स जगाम महातेजाः कुरुक्षेत्रं तपोमयम्
सुखावगाहतीर्थानि तानि चक्रे समन्ततः
सरांसि तानि वै पञ्च पूरयामास भार्गवः
पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः
ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम्
उवासातन्द्रितः सम्यक् पितृपूजापरायणः
विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने
यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम्
भृशमाप्यायितास्तेन यत्र ते पितरो ऽखिलाः
समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम्
मर्त्यानां यत्र यातानामेनांसि निखिलानि तु
तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह
समन्तपञ्चकं तीर्थं कुरुक्षेत्रे ऽतिपावनम्
कृतकृत्यस्ततो रामः सम्यक् पूर्णमनोरथः
ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी
ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः
शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम्
यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि
पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु
ततस्तत्पितरः सर्वे पितृलोकादुपागताः
अथ संप्रीतमनसः समेत्य भृगुनन्दनम्
महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम्
अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि
क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम्
त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि