युक्तिलौकिकदृष्टान्तैस्तच्छोकं संव्यशामयत्
प्रययौ सहितः सख्या भ्रातॄणां तु दिदृक्षया
शोकामषयुतस्तैश्च सह त्स्थौ दिनत्रयम्
बभूव सहसा सर्वलोकसंहरणक्षमः
दृढीचकार हृदये सर्वक्षत्रवधोद्यतः
करिष्ये तर्पणं पित्रोरिति निश्चित्य भार्गवः
प्रययौ तदनुज्ञातः कृत्वा संस्थांपितुः क्रियाम्
तद्बाह्योपवने स्थित्वा सस्मार स महोदरम्
प्रेषयामास रामाय सर्वसंहननानि च
गृहीत्वापूरयच्छङ्खं रुद्रदत्तममित्रजित्
सहसाहोथ सारथ्यं चक्रे सारथिनां वरः
तस्याभून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः
संक्षुब्धाश्चक्रुरुद्योगं संग्रामाय नृपात्मजाः
रामेण योद्धुं सहिता राजभिश्च क्रुरुद्यमम्
राममासादयामासुः पतङ्गा इव पावकम्
युयुधे पार्थिवैः सर्वैः समरे ऽमितविक्रमः
जघान यत्र संक्रुद्धो राज्ञां शतमुदारधीः
त्रणेन पातयामास क्षितौ क्षत्रियमण्डलम्
हतशिष्टा नृपतयो दुद्रुवुः सर्वतोदिशम्
जघान शतशो राज्ञः शूराञ्छरवराग्निना
उदैरयद्भार्गवो ऽस्त्रं कालाग्निसदृशप्रभम्
पुरीं सहस्त्यश्वनरां स ददाहास्त्रपावकः
जीवनाय जगामाशु वीतिहोत्रो भयातुरः
प्राशयानो ऽखिलान् लोकान् साक्षात्काल इवान्तकः
जगामरथघोषेण कंपयन्निव मेदिनीम्
महेन्द्राद्रिं ययौ रामस्तपसे धतमानसः
प्रत्येत्य भूयस्तद्धत्यै बद्धदीक्षो धृतव्रतः
निजघान पुनर्भूमौ राज्ञ शतसहस्रशः
षट्चतुष्टयवर्षान्तं तपस्तेपे पुनश्च सः
जघान भूमौ निःशेषं साक्षात्काल इवान्तकः