दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत
न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे
समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने
आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे
पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम्
निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः
भार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः
राजपुत्रव्यवसितं पित्रौः स्वर्गतिमेव च
तन्मृतेरेव मरणं श्रुत्वा मातुश्च केवलम्
तमथाश्वासयामास तुल्यदुःखो ऽकृतव्रणः
युक्तिलौकिकदृष्टान्तैस्तच्छोकं संव्यशामयत्
प्रययौ सहितः सख्या भ्रातॄणां तु दिदृक्षया
शोकामषयुतस्तैश्च सह त्स्थौ दिनत्रयम्
बभूव सहसा सर्वलोकसंहरणक्षमः
दृढीचकार हृदये सर्वक्षत्रवधोद्यतः
करिष्ये तर्पणं पित्रोरिति निश्चित्य भार्गवः
प्रययौ तदनुज्ञातः कृत्वा संस्थांपितुः क्रियाम्
तद्बाह्योपवने स्थित्वा सस्मार स महोदरम्
प्रेषयामास रामाय सर्वसंहननानि च
गृहीत्वापूरयच्छङ्खं रुद्रदत्तममित्रजित्
सहसाहोथ सारथ्यं चक्रे सारथिनां वरः
तस्याभून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः
संक्षुब्धाश्चक्रुरुद्योगं संग्रामाय नृपात्मजाः
रामेण योद्धुं सहिता राजभिश्च क्रुरुद्यमम्
राममासादयामासुः पतङ्गा इव पावकम्
युयुधे पार्थिवैः सर्वैः समरे ऽमितविक्रमः
जघान यत्र संक्रुद्धो राज्ञां शतमुदारधीः
त्रणेन पातयामास क्षितौ क्षत्रियमण्डलम्
हतशिष्टा नृपतयो दुद्रुवुः सर्वतोदिशम्
जघान शतशो राज्ञः शूराञ्छरवराग्निना