आगतस्तव सान्निध्यमकृतव्रणसंयुतः
जमदग्निरुवाचेदं रामं शत्रुनिबर्हणम्
प्रयश्चित्तं ततस्तावद्यथावत्कर्तुमर्हसि
प्रायश्चित्तं तु तद्योग्यं त्वं मे निर्देष्टुमर्हसि
शाकमूलफलाहारो द्वादशाब्दं तपश्चर
प्रययौ तपसे राजन्नकृतव्रणसंयुतः
कृत्वाऽश्रमपदं तस्मिंस्तपस्तेपे सुदुश्चरम्
निन्ये वर्षाणि कति चिद्रामस्तस्मिन्महामनाः
सगरोपाख्याने भार्गवचरिते चतुश्चत्वारिंशत्तमो ऽध्यायः
मृगयामगमच्छूरः शूरसेनादिभिः सह
जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु
गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम्
कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः
वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः
क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन्
वैर निर्यातनं किं तु करिष्यामो दिशाधुना
प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः
प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति
परिवार्य महाराज रुरुदुः शोककर्शिताः
पपात मूर्च्छिता सद्यो लतेवाशनिताडिता
दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत
न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे
समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने
आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे
पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम्
निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः
भार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः
राजपुत्रव्यवसितं पित्रौः स्वर्गतिमेव च
तन्मृतेरेव मरणं श्रुत्वा मातुश्च केवलम्
तमथाश्वासयामास तुल्यदुःखो ऽकृतव्रणः