उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमो ऽध्यायः
समाजगाम धर्मात्माकृतव्रणसमन्वितः
व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः
शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम्
समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः
उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने
जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला
अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः
प्रविवेश शनै राजन्नकृतव्रणसंयुतः
द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः
ददर्श पितरं रामो जमदग्निं तपोनिधिम्
पपात चरणोपान्ते ह्यष्टाङ्गालिङ्गितावनिः
जग्राह चरणौ चापि विधिवत्सज्जनाग्रणीः
उवाच प्रणतो वाक्यं तयोः संहर्षकारणम्
कार्त्तवीर्यो हतो युद्धे समुत्रबलवाहनः
तस्य दण्डो मया दत्तः प्रसह्य मुनिपुङ्गव
तं नमस्कृत्य विधिवत्स्वकार्यं प्रत्यवेदयम्
व्रज स्वकार्यसिद्ध्यर्थं शिवलोकं सनातनम्
गतवाञ्छिवलोकं वै हरदर्शनकाङ्क्षया
नमस्कृतो मया देवो वाञ्छितार्थ प्रदायकः
मया समाहितधिया स सर्वं श्रुतवानपि
त्रैलोक्यविजयं नाम कवचं सर्वसिद्धिदम्
तत्राहं साधयित्वा तु कवचं हृष्टमानसः
तत्र तौ तु मया दृष्टौ द्वारे स्कन्दविनायकौ
स मामवेक्ष्य गामपो विशन्तं त्वरयान्वितम्
मम तेन पितस्तत्र वाग्युद्धं हस्तकर्षणम्
स तज्ज्ञात्वा समुद्गृह्य मामधश्चोर्द्ध्वमेव च
तं दृष्ट्वातिक्रुधा क्षिप्तः कुठारो हि मया ततः
पार्वती तत्र रुष्टाभूत्तदा कृष्णः समागतः
मह्यं कृष्मो जगामाथ तेन मैत्रीं विधाय च