ततो ऽस्य जघ नात्पूर्वमसुरा जज्ञिर सुताः
सृष्टा यया सुरास्तन्वा तां तनुं स व्यपोहत
सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका
सृष्ट्वासुरांस्ततः सो ऽथ तनुमन्यामपद्यत
ततस्तां युञ्ज मानस्य प्रियमासीत्प्रभोः किल
यतो ऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः
तस्मात्तन्वास्तु दिव्याया जज्ञिरे तेन देवताः
उत्सृष्टा सा तनुस्तेन अहः समभवत्तदा
देवान्सृष्ट्वा ततः सो ऽथ तनुमन्यामपद्यत
पितेव मन्यमानस्तान्पुत्रान्प्रध्याय स प्रभुः
तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम्
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत
तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी
युक्तास्तनुमुपासंते उषाव्युष्ट्योर्यदन्तरम्
ततो ऽन्यस्यां पुनर्ब्रह्मा स्वतन्वामुपपद्यत
मनसा तु सुतास्तस्य प्रजनाज्जज्ञिरे प्रजाः
सृष्ट्वा पुनः प्रजाः सो ऽथ स्वां तनुं स व्यपोहत
तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः
सद्यो रात्र्यहनी चैवसंध्या ज्योत्स्ना च जज्ञिरे
तमोमात्रात्मिका रात्रिः सा वै तस्मान्नियामिका
यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा
प्राणेभ्यो रात्रिजन्मानो ह्यजेया निशि तेन ते
पितॄणां मानुषाणां च अतीताना गतेषु वै
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि तानि वा
अंभांस्येतानि सृष्ट्वा तु देवदानवमानुषान्
तामुत्सृज्य ततो च्योत्स्नां ततो ऽन्यां प्राप्य स प्रभुः
ततो ऽन्याः सोंऽधकारे च क्षुधाविष्टाः प्रजाः सृजन्
अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये
ये ऽब्रुवन् क्षिणुमो ऽम्भांसि तेषां त्दृष्टाः परस्परम्
रक्षेति पालने चापि धातुरेष विभाव्यते