जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम्
अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा
चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत
प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः
स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा
न को ऽपि भवताद्वत्स तेजस्वी च भवत्परः
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत्
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात्
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमो ऽध्यायः
समाजगाम धर्मात्माकृतव्रणसमन्वितः
व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः
शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम्
समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः
उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने
जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला
अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः
प्रविवेश शनै राजन्नकृतव्रणसंयुतः
द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः
ददर्श पितरं रामो जमदग्निं तपोनिधिम्
पपात चरणोपान्ते ह्यष्टाङ्गालिङ्गितावनिः
जग्राह चरणौ चापि विधिवत्सज्जनाग्रणीः
उवाच प्रणतो वाक्यं तयोः संहर्षकारणम्
कार्त्तवीर्यो हतो युद्धे समुत्रबलवाहनः
तस्य दण्डो मया दत्तः प्रसह्य मुनिपुङ्गव
तं नमस्कृत्य विधिवत्स्वकार्यं प्रत्यवेदयम्
व्रज स्वकार्यसिद्ध्यर्थं शिवलोकं सनातनम्
गतवाञ्छिवलोकं वै हरदर्शनकाङ्क्षया
नमस्कृतो मया देवो वाञ्छितार्थ प्रदायकः