अद्य प्रभृति वत्सास्मिंल्लोके श्रेष्ठतमो भव
तत्सर्वं क्रमतो भाव्यं समा बह्वीस्त्वया विभो
योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा
ज्ञानेन यशसा वापि सर्वश्रेष्ठतमो भवान्
तपश्चर यथाकालं तेन सिद्धिः करस्थिता
आलिङ्ग्य गाढं रासेण मैत्रीं तस्य चकार ह
कृष्णाज्ञया महाभागौ बभूवतुररिन्दम
उभाभ्यां च वरं प्रादात्प्रसन्नास्या मुदान्विता
मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ
सिद्धिं प्रयातु ततसर्वं मत्प्रसादाद्धि तस्य तु
जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम्
अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा
चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत
प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः
स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा
न को ऽपि भवताद्वत्स तेजस्वी च भवत्परः
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत्
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात्
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमो ऽध्यायः
समाजगाम धर्मात्माकृतव्रणसमन्वितः
व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः
शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम्
समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः
उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने
जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला
अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः
प्रविवेश शनै राजन्नकृतव्रणसंयुतः
द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः