वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः
पार्वती जगतां नाथा विस्मितासीच्छुभानना
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी
द्विधा भिन्नौ प्रकाशेते प्रपञ्चे ऽस्मिन् यथा तथा
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः
मम रूपं समास्थाय विष्णोश्च हृदये शिवः
गणेशो ऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः
एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम्
स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम्
पादयोः पतितं राममुत्थाप्य निजपाणिना
एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः
अथ शंभुरपि प्रीतः श्रीदामानम् पस्थितम्
स्वोत्संगे स्थापयामास प्रेम्णा मत्कृत्य मानदः
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमो ऽध्यायः
भवान्युत्संगतो रामः समुत्थाय कृताजलिः
अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम्
अविदिततनुनामाभीष्टवस्त्वेकधामाभवदथ भव भामा पातु मां पूर्णकामा
तदिह निखिलतातः संबभूवोक्षपातः कृतकृतकनिपातः पातु मामद्य मातः
प्रसभरचितकाशी भक्तदत्ताखिलाशीरवतु विजितपाशी मांसदा षण्मुखाशी
हरकृतबहुमानो गोपिकेशैकतानो विदितबहुविधानो जायतां कीर्तिहा नौ
सकलगुणगरिष्ठो राधिकाङ्केनिविष्टो मम कृतमपराधं क्षन्तुमर्हत्वगाधम्
रासेशी रसिकेश्वरी रमणत्दृन्निष्ठानिजानन्दिनी नेत्री सा परिपातु मामवनतं राधेति य कीर्त्यते
यस्या गर्भसमुद्भवो ह्यतिविराड्यस्यांशभूतो विराट् यन्नाभ्यंबुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसु ब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा
कृष्णः पूर्णतमो ममोपरि दयाक्लिन्नान्तरः स्तात्सदा येनाहं सुकृती भवामि च भवाम्यानन्दलीनान्तरः
विज्ञाताखिलतत्त्वार्थो हृष्टरोमा कृतार्थवत्
भार्गवं प्रणतं भक्त्या कृपापात्रं पुरस्थितम्