बर्हापीडं मणिगणयुतं बिभ्रदीषत्स्मितास्यो गोपीनाथो गदितसुयशाः कौस्तुभोद्भासिवक्षाः
राधया सहितः श्रीमान् श्रीदाम्ना चापराजितः
अथैनमागतं दृष्ट्वा शिवः संहृष्टमानसः
प्रवेश्याभ्यन्तरे वेश्मराधया सहितं विभुम्
थ तत्र गता देवी पार्वती तनयान्विता
थ रामो ऽपि तत्रैव गत्वा नमितकन्धरः
सा यदा नाभ्यनन्दत्तं भार्गवं प्रणतं पुरः
तदोवाच जगन्नाथः पार्वतीं प्रीणयन्गिरा
नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे
तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम्
विनायकस्ते तनयो महात्मा महतां महान्
वेदस्मृतिपुराणेषु संहितासु च भामिनि
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लंबोदरः स तु
गजस्य शिरसा देवितेन प्रोक्तो गजाननः
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः
जातवेदा दीपितो ऽभूद्येनासौशूर्पकर्मकः
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः
दशनं दैवतो भद्रे ह्येकदन्तः कृतो ऽमुना
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः
पार्वती जगतां नाथा विस्मितासीच्छुभानना
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी
द्विधा भिन्नौ प्रकाशेते प्रपञ्चे ऽस्मिन् यथा तथा
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः
मम रूपं समास्थाय विष्णोश्च हृदये शिवः