मातुर्वापि भगिन्या वा दुहितुः स नराधमः
ब्रान्त्या विनिर्गतं वापि हास्यार्थमथवोदितम्
निर्विकारास्य च शिशोर्न दोषः कश्चिदेव हि
यथादृष्टं करिष्यामि तत्र यत्समयोचितम्
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ
विनायकस्तदोत्थाय वारयामास सत्वरम्
दृष्ट्वा सकन्दस्तु संभ्रान्तो बोधयामास तौ तदा
परश्वधं समादाय सप्रक्षेप्तुं समुद्यतः
भूर्लोकं भुवः स्वरपि तस्योर्ध्वं महर्वैजनं लोकं चापि तपो ऽथ सत्यमपरं वैकुण्ठमप्यानयत्
उद्धृत्याथ ततो हि गर्भसलिले प्रक्षप्तमात्रं त्वरा भीतं प्राणपरिप्सुमानयदथो तत्रैव यत्रास्थितः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते एकचत्वारिंशत्तमो ऽध्यायः
हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम्
क्रोधाविष्टो भृशं भूत्वा प्राक्षिपत्स्वपरश्वधम्
अमोघं कर्त्तुकामस्तु वामे तं दशने ऽग्रहीत्
भुवि शोणितसंदिग्धो वज्राहत इवाचलः
चकंपे पृथिवीपाल लोकास्त्रासमुपागताः
कार्त्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुराः
पार्वतीशङ्करौ तत्र समाजग्मतुरीश्वरौ
पप्रच्छ स्कन्दं पार्वती किमेतदिति कारणम्
वृत्तान्तं कथयामास मात्रे रामस्य शृण्वतः
उवाच शङ्करं रुष्टा पार्वती प्राणनायकम्
त्वत्तोलब्ध्वा परं तेजो वर्म त्रैलोक्यजिद्विभो
स्वकार्यं साधयित्वा तु प्रादात्तुभ्यं च दक्षिणाम्
अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः
तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः
पुत्राभ्यां सहिता यास्ये पितुः स्वस्य निकेतनम्
भवता तु कृतोनैव सत्कारो वचसापि हि
एतच्छ्रुत्वा तु वचनं पार्वत्या भगवान्भवः
सस्मार मनसा कृष्णं प्रणतक्लेशनाशनम्
आजगाम दयासिंधुर्भक्तवश्यो ऽखिलेश्वरः