प्रतस्थे द्रष्टुमुर्वीश शिवं कैलासवासिनम्
मनोयायी महात्मासावकृतव्रणसंयुतः
ददर्श तत्र नगरीं महतीमलकाभिधम्
नानारुपधरैर्यक्षैः शोभितां चित्रभूषणैः
दीर्घिकाभिः सुदीर्घाभिस्तडागैश्चोपशोभिताम्
तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरम्
यत्र संगीतसंनादा श्रूयन्ते तत्रतत्र ह
तां दृष्ट्वा भार्गवो राजन्मुदा परमया युतः
ततो ददर्श राजेन्द्र स्निग्धच्छायं महावटम्
ददर्ंश तत्र प्राकारं शतयोजनमण्डलम्
नन्दीश्वरं महाकालं रक्ताक्षं विकटोदरम्
मन्दारं भैरवं बाणं रुरुं भैरवमेव च
सिद्धेन्द्रनाथरुद्रांश्च विद्याधरमहोरगान्
वेतालान्दानवेन्द्रांश्च योगीन्द्रांश्च जटाधरान्
दृष्ट्वा नन्द्या५या तत्र प्रविष्टो ऽन्तर्मुदान्वितः
चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ
ननाम भार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ
रत्नसिंहासनस्थाश्च रत्नभूषमभूषिताः
विनायको महाराज क्षणं तिष्ठेत्युवाच ह
ईश्वराज्ञां गृहीत्वाहमत्रागत्यक्षणान्तरे
विनायकचश्चैवं श्रुत्वा भार्गवनन्दनः
गत्वा ह्यन्तःपुरं भ्रातः प्रणम्य जगदीश्वरौ
कार्त्तवीर्यः सुचन्द्रश्च सपुत्रबलबान्धवः
कान्यकुब्जाः कोशलेशा मायावन्तो महाबलाः
तमिमं प्रणिपत्यैव यास्यामि स्वगृहं प्रति
प्रोवाच मधुरं वाक्यं भार्गवे स गणाधिपः
अद्य विश्वेश्वरो भ्रातर्भवान्या सह वर्त्तते
करोति सुखभङ्गं यो नरकं स व्रजेद्ध्रुवम्
र७स्यं समुपासिनं न पश्येदिति निश्चयः
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्रसु जन्मसु