परितो मण्डलं चक्रुर्भार्गवस्य महात्मनः
विरेजे भगवान्साक्षाद्यथा नाभिस्तु चक्रगा
रेजुश्च गोपी गणमध्यसंस्थः कृष्णो यथा ताः परितो भ्रमन्त्यः
समाकिरन्नन्दनमाल्यवर्षैः समन्ततो राममहीनवीर्यम्
तौर्यत्रिकस्येव शरक्षतानि भान्तीव यद्वन्नखदन्तपाताः
एवं प्रवृत्तं नृपयुद्धमण्डलं पश्यन्ति देवा भृशविस्मिताक्षः
पृथक्चकारातिब लांस्तु मण्डलद्विच्छिद्य पङ्क्तिं प्रभुरात्तचापः
शूरो वृषास्यो वृषशूरसेनौ जयध्वजश्चापि विभिन्नधैर्याः
पृथग्गतास्ते सुपरीप्सवो नृपा न को ऽपि कांस्विद्ददृशे भृशार्त्तः
समन्वितो ऽसावकृतव्रणेन सस्नौ मुदागत्य च नर्मदायाम्
प्रतस्थे द्रष्टुमुर्वीश शिवं कैलासवासिनम्
मनोयायी महात्मासावकृतव्रणसंयुतः
ददर्श तत्र नगरीं महतीमलकाभिधम्
नानारुपधरैर्यक्षैः शोभितां चित्रभूषणैः
दीर्घिकाभिः सुदीर्घाभिस्तडागैश्चोपशोभिताम्
तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरम्
यत्र संगीतसंनादा श्रूयन्ते तत्रतत्र ह
तां दृष्ट्वा भार्गवो राजन्मुदा परमया युतः
ततो ददर्श राजेन्द्र स्निग्धच्छायं महावटम्
ददर्ंश तत्र प्राकारं शतयोजनमण्डलम्
नन्दीश्वरं महाकालं रक्ताक्षं विकटोदरम्
मन्दारं भैरवं बाणं रुरुं भैरवमेव च
सिद्धेन्द्रनाथरुद्रांश्च विद्याधरमहोरगान्
वेतालान्दानवेन्द्रांश्च योगीन्द्रांश्च जटाधरान्
दृष्ट्वा नन्द्या५या तत्र प्रविष्टो ऽन्तर्मुदान्वितः
चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ
ननाम भार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ
रत्नसिंहासनस्थाश्च रत्नभूषमभूषिताः
विनायको महाराज क्षणं तिष्ठेत्युवाच ह
ईश्वराज्ञां गृहीत्वाहमत्रागत्यक्षणान्तरे