यदास्य हृद्येष महानुभावो दत्तः प्रयातो न हि दर्शनं तदा
स ध्यायमानो ऽपि न चाजगाम दत्तो मनोगोचरमस्य राजन्
एवं यदात्रेस्तनयो महात्मा दृष्टो न च ध्यानपथे नृपेण
तं शोकमग्नं नृपतिं महात्मा रामो जगादाखिलचित्तदर्शी
यस्ते वरायाभवमादिसर्गे स एव चाहं तंव सादनाय
सर्वो हि लोकः स्वकृतं भुनक्ति शुभाशुभं दैवकृतं विपाके
यत्ते सुपुण्यं बहुजन्मसंचितं तेनेह दत्तस्य वरार्हपात्रम्
गुरुर्विमत्यापकृतस्त्वया मे यतस्ततः कर्णनिकृन्तनं ते
इत्येवमुक्त्वा स भृगुर्महात्मा नियोज्य बाणं च विकृष्य चापम्
तद्वीक्ष्य कर्मास्य मुनेः सुतस्य स चार्जुनो हैहयवंशधर्त्ता
शूलशक्तिगदाचक्रखढ्गपट्टिशतोमरैः
स रामो लाघवेनैव संप्रक्षिप्तान्यनेन च
स राजा वार्युपस्पृश्य ससर्जाग्नेयमुत्तमम्
गान्धर्वं विदधे राजा वायव्येनाहनद्विभुम्
दत्तेन दत्तं यच्छूलमव्यर्थं मन्त्रपूर्वकम्
तच्छूलं शतसूर्याभमनिवार्यं सुरासुरैः
मूर्ध्नि तद्भार्गवस्याथ निपपात महीपते
मूर्च्छामवाप राजेन्द्र पपात च हरिं स्मरन्
समाजग्मुः पुरस्कृत्य ब्रह्मविष्णुमहेश्वरान्
भार्गवं जीवयामास संजीवन्या स विद्यया
प्रणनाम च राजेन्द्र भक्त्या ब्रह्मादिकांस्तु तान्
स रामो वार्युस्पृश्य जजाप कवचं तु तत्
स्मृत्वा पाशुपतं चास्त्रं शिवदत्तं स भार्गवः
प्रविष्टो भस्मसाज्जातं शरीरं बाहुनन्दन
उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यवधो नाम चत्वारिंशत्तमो ऽध्यायः
वारयामासुरत्युग्रं भार्गवं स्वबलेः पृथक्
संग्रामं तुमुलं चक्रुः संरब्धास्तु पितुर्वधात्
परश्वधं समादाय युयुधे तैश्च संगरे
निजघान त्वरायुक्तो मुहुर्त्तद्वयमात्रतः
दृष्ट्वा रामेण तेसर्वे युयुधुर्वीर्यसंमताः