ध्यानप्रभावेण ततस्तु तस्य ब्रह्मास्त्रयुग्मं विगतप्रभावम्
स जामदग्न्यो महातां महीयान्स्रष्टुं तथा पालयितुं निहन्तुम्
धनुर्द्धरः शूरतमो महस्वान्सदग्रणीः संसदि तथ्यवक्ता
एवं नृलोके प्रथयन्स्वभावं सर्वाणि कल्यानि करोति नित्यम्
एवं स रामः प्रथितप्रभावः प्रशामयित्वा तु तदस्त्रयुग्मम्
तुणीरतः पत्रियुगं गृहीत्वा पुङ्खे निधायाथ धनुर्ज्यकायाम्
स कृत्तकर्णो नृपतिर्महात्मा विनिर्जिताशेषजगत्प्रवीरः
क्षणं धराधीशतनुर्विवर्णा गतानुभावा नृपतेर्बभूव
ततः स राजा निजवीर्यवैभवं समस्तलोकाधिकतां प्रयातम्
दध्यौ पुनर्मीलितलोचनो नृपौ दत्तं तमात्रेयकुलप्रदीपम्
यदास्य हृद्येष महानुभावो दत्तः प्रयातो न हि दर्शनं तदा
स ध्यायमानो ऽपि न चाजगाम दत्तो मनोगोचरमस्य राजन्
एवं यदात्रेस्तनयो महात्मा दृष्टो न च ध्यानपथे नृपेण
तं शोकमग्नं नृपतिं महात्मा रामो जगादाखिलचित्तदर्शी
यस्ते वरायाभवमादिसर्गे स एव चाहं तंव सादनाय
सर्वो हि लोकः स्वकृतं भुनक्ति शुभाशुभं दैवकृतं विपाके
यत्ते सुपुण्यं बहुजन्मसंचितं तेनेह दत्तस्य वरार्हपात्रम्
गुरुर्विमत्यापकृतस्त्वया मे यतस्ततः कर्णनिकृन्तनं ते
इत्येवमुक्त्वा स भृगुर्महात्मा नियोज्य बाणं च विकृष्य चापम्
तद्वीक्ष्य कर्मास्य मुनेः सुतस्य स चार्जुनो हैहयवंशधर्त्ता
शूलशक्तिगदाचक्रखढ्गपट्टिशतोमरैः
स रामो लाघवेनैव संप्रक्षिप्तान्यनेन च
स राजा वार्युपस्पृश्य ससर्जाग्नेयमुत्तमम्
गान्धर्वं विदधे राजा वायव्येनाहनद्विभुम्
दत्तेन दत्तं यच्छूलमव्यर्थं मन्त्रपूर्वकम्
तच्छूलं शतसूर्याभमनिवार्यं सुरासुरैः
मूर्ध्नि तद्भार्गवस्याथ निपपात महीपते
मूर्च्छामवाप राजेन्द्र पपात च हरिं स्मरन्
समाजग्मुः पुरस्कृत्य ब्रह्मविष्णुमहेश्वरान्
भार्गवं जीवयामास संजीवन्या स विद्यया