तेषां स्थानान्यशुष्मिं च संस्थिताना मचष्ट सः
स्मृतं तेषां तु यत् स्थानं तदेव गुरुवासिनाम्
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम्
स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु
पंथानः पितृयानास्तु समृताश्चत्वार एव ते
तथैव पितृयानानां चन्द्रमा द्वारमुच्यते
यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः
आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः
ततो ऽन्यां मानसीं सो ऽथ प्रजाः स्रष्टुं प्रचक्रमे
धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः
युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः
अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः
कल्पे ऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह
मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः
कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः
देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः
आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह
ततो देवासुरपितॄन्मनुष्यांश्च चतुषृयम्
युक्तात्मनस्ततस्तस्य तमोमात्रासमुद्भवः
ततो ऽस्य जघ नात्पूर्वमसुरा जज्ञिर सुताः
सृष्टा यया सुरास्तन्वा तां तनुं स व्यपोहत
सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका
सृष्ट्वासुरांस्ततः सो ऽथ तनुमन्यामपद्यत
ततस्तां युञ्ज मानस्य प्रियमासीत्प्रभोः किल
यतो ऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः
तस्मात्तन्वास्तु दिव्याया जज्ञिरे तेन देवताः
उत्सृष्टा सा तनुस्तेन अहः समभवत्तदा
देवान्सृष्ट्वा ततः सो ऽथ तनुमन्यामपद्यत
पितेव मन्यमानस्तान्पुत्रान्प्रध्याय स प्रभुः