मुहूर्त्तं जामदग्न्यो ऽपि बाणैः संझदितो ऽभवत्
शरबन्धान्महाराज समुदैक्षत सर्वतः
क्रोधमाहारयामास दिधक्षन्निव पावकः
ततो मेघाः समुत्पन्ना गर्जन्तो भैरवान्नवान्
पुष्कराक्षो महावीर्यो वायव्यास्त्रुमवासृजत्
अथ रामो भृशं क्रुद्धो ब्राह्मं तत्राभिसंदधे
ब्राह्म सो ऽप्याहितं दृष्ट्वा दण्डाहत इवारगः
रामस्याधावतस्तत्र पुष्कराक्षो धनुर्धरः
एकैकेन च बाणेन हृदि शीर्षे भुजद्वये
स चैवं पीडीतो रामः पुष्कराक्षेण संयुगे
शिखामारभ्य पादान्तं पुथ्कराक्षं द्विधाकरोत्
आश्चर्यं सुमाहज्जातं दिवि चैव दिवौ कसाम्
तत्सैन्यमदहत्क्रुद्धः पावको विपिनं यथा
ततस्ततो वाजिरथेभमानवा निकृत्तगात्राः शतशो निपेतुः
हा तात मातस्त्विति जल्पमांना भस्मीबभूवुः सुविचूर्णितास्तदा
अनेकराजन्यकुलं हतेश्वरं इतं नवाक्षौहिणिकं भृशातुरम्
आजगाम महावीर्यः सुवर्णरथमास्थितः
दशनल्वप्रमाणं च शतवाजियुतं नृपः
बभौ स्वर्लोकमारोक्ष्यन्देहति सुकृती यथा
सेनाः संव्यूह्य संतस्थुः संग्रामे पितुराज्ञया
कालान्तकयमप्रख्यं योद्धुं समुपचक्रमे
जग्रा ह भार्गवेन्द्रस्य समरे जेतुमुद्यतः
यथा बलाहको वीर पर्वतोपरि वर्षति
जग्राह स्वघनुर्दिव्यं बाणवर्षं तथाकरोत्
चक्रतुर्यद्धमतुलं तुमुलं लोमहर्षणम्
वधाय भार्गवेन्द्रस्य सर्वशस्त्रास्त्रधृगबली
ततो व्योम्नि सदा सक्ते द्वे चाप्य स्त्रे नराधिप
त्रयो लोकाः सपाताला दृष्ट्वा तन्महदद्भुतम्
रामस्तदा वीक्ष्य जगत्प्रणाशं जगन्निवासोक्तमथास्मरत्तदा
इति व्यवस्य प्रभुरुग्रतेजा नेत्रद्वयेनाथ तदस्त्रयुगमम्