नारायणास्त्रं विशिखे संदधे चानिवारितम्
हृष्टोत्तीर्य रथात्सद्यः सुचन्द्रः प्रणनाम ह
तमेवं प्रणतं त्यक्त्वा यथौ नारायमन्तिकम्
दृष्ट्वा व्यर्थं महास्त्रं तद्भूपं स्वस्थं विलोक्य च
गदां च परशुं कोपाच्छिक्षेप नृपमूर्द्धनि
चिक्षेप शिवशूलं च रामो नृपतये यदा
ददर्श च पुरस्तस्य भद्रकालीं जगत्प्रसूम्
सिंहस्थां च त्रिनेत्रां च त्रिशूलवरधारिणीम्
नमोस्तु ते शङ्करवल्लभायै जगत्सवित्र्यै समलङ्कृतायै
दक्षप्रसूत्यै हिमवद्भवायै महेश्वरार्द्धङ्गसमास्थितायै
ताराभिधायै शिवतत्परायै गणेश्वराराधितपादुकायै
जगद्धितायास्तपुरत्रयायै बालादिकायै त्रिपुराभिधायै
बकाननायै बहुसाख्यदायै विध्वस्तनानासुरदान्वायै
पीतांबरायै पवनाशुगायै शुभप्रदायै शिवसंस्तुतायै
लघुक्रमायै ललिताभिधायै लेखाधिपायै लवणाकरायै
रमाभिधायै रतिसुप्रियायै रोगापहायै रचिताखिलायै
नमो नमस्ते परतः पुरस्तात् पार्श्वाधरोर्ध्वं च नमो नमस्ते
प्रसीद देवेशि मम प्रतिज्ञां पुरा कृतां पालय भद्रकालि
एवं स्तुता तदा देवी भद्रकाली तरस्विनी
वत्स राम महाभाग प्रीतास्मि तव सांप्रतम्
मातर्यदि वरो देयस्त्वया मे भक्तव त्सले
इति मे ऽभिहितं देवि कुरु प्रीतेन चेतसा
आग्नेयास्त्रेण राजेन्द्रं सुचन्द्रं नय मद्गृहम्
इत्युक्तमाकर्ण्य स भार्गवेन्द्रो देव्याः प्रियं कर्तुमथोद्यतो ऽभूत्
अस्त्रं प्रयुक्तं नृपतेर्वधाय रामेण राजन् प्रसभं तदा तत्
ततस्तु रामेण कृतप्रणामा सा भद्रकालो जगदादिकर्त्री
अन्तर्हिताभूदथ जामदग्न्यस्तस्थौ रणेभूपवधाभिकाङ्क्षी
उपोद्धातपादे भार्गवचरिते एकोनचत्वारिंशत्तमो ऽध्यायः
तत्पुत्रः पुष्कराक्षस्तु रामं योद्धुमथागतः
अभिवीक्ष्य रणेत्युग्रं रामं कालातकोपमम्