स भिन्नशीर्षो रुधिरं वमन्मुहुर्मर्च्छामवाप्याथ ममार च क्षणात्
तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे
मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः
उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमो ऽध्यायः
राजेन्द्रान्प्रेरयामास कार्त्तवीर्यो महाबलः
निषधाधिपतिश्चैव मगधाधिपतिस्तथा
वर्षन्तः शरजालानि नानायुद्धविशारदाः
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः
तदस्त्रं भार्गवे द्रेण क्षिप्तं संग्राममूर्द्धनि
ततः क्रुद्धो महाभागो रामः शत्रुविदारणः
बृहद्बलं च गदया विदर्भं मुष्टिना तथा
मागधञ्चरणाघातैरस्त्रजालेन सैनिकान्
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः
कार्य्याकार्यविधानज्ञाः पृष्टे कृत्वा च हैहयम्
कान्यकुब्जाश्च शतशः सौराष्ट्रावन्तयस्तथा
शरजालावृतस्तेषां रामः संग्राममूर्द्धनि
सस्मार रामचरितं यदुक्तं हरिणेन वै
एतस्मिन्नेव काले तु रामः शस्त्रास्त्रकोविदः
उदतिष्ठद्रणाकाङ्क्षी नीहारादिव भास्करः
द्वादशाक्षौहिणीस्तत्र चिच्छेद लघुविक्रमः
सर्वांस्तान्भूपवर्गांश्च तदीयश्च महाचमूः
आजगाम महावीर्यः सुचन्द्रः सूर्यवंशजः
तत्रानेकमहावीरा गर्जन्तस्तोयदा इव
तेः प्रयुक्तानि शस्त्राणि महास्त्राणि च भूपते
गृहीत्वा परशुं दिव्यं कालातकयमोपमम्
कर्षकस्तु यथा क्षेत्रे पक्वं धान्यं तथा तृणम्
लक्षराजन्यसैन्यं तददृष्ट्वा रामेण दारितम्
तावुभौ तत्र संक्षुब्धौ नानाशस्त्रास्त्रकोविदौ
रामो ऽस्मै यानि शस्त्राणि चिक्षेपास्त्राणि चापि हि
ततः क्रुद्धो रणे रामः सुचन्द्रं पृथिवीश्वरम्