मार्गे ददर्श राजेन्द्रो विपरीतानि भूपते
मुक्तकेशां छिन्ननासां रुदतीं च दिगंबराम्
कुचैलं पतितं भग्नं नग्नं काषायवाससम्
गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपम्
स्वदक्षिणे शृगालं च कुर्वन्तं भैर्वं रवम्
दृष्ट्वापि प्रययौ योद्धुं कालपाशावृतो हझात्
वटच्छायासमासीनो रामो ऽपश्यदुपागतम्
सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूव ह
यद्दृष्टिगोचरो जातः कार्तवीर्यो नृपाधमः
व्यञ्जृभतारिनाशायसिंहः क्रुद्धो यथा तथा
चकंपिरे भृशं सर्वे मृत्योरिव शरीरिणः
ततस्ततश्छिन्नभुजोरुकङ्घरा नागा हयाः शूरनरा निपेतुः
तथैव रामो ऽपि मनोनिलौजा विमर्द्दयामास नृपस्य सेनाम्
उद्यम्य चापं महदास्थितो रथं सृज्यं च कृत्वा किलमन्स्यराजः
दृष्ट्वा तमायान्तमथो महात्मा रामो गृहीत्वा धनुषं महोग्रम्
स चापि राजातिबलो मनस्वी ससर्ज रामाय तु पर्वतास्त्रम्
रामो ऽपि तत्रातिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः
नारायणास्त्रे भृगुणा प्रयुक्ते रामेण राजन्नृपतेर्वधाय
रामस्तु तस्याथ विलक्ष्य कम्पं बाणैश्चतुर्भिर्निजघान वाहान्
बाणेन चैकेन प्रसह्य सारथिं निपात्य भूमौ रथमार्द्दयत्त्रिभिः
स भिन्नशीर्षो रुधिरं वमन्मुहुर्मर्च्छामवाप्याथ ममार च क्षणात्
तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे
मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः
उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमो ऽध्यायः
राजेन्द्रान्प्रेरयामास कार्त्तवीर्यो महाबलः
निषधाधिपतिश्चैव मगधाधिपतिस्तथा
वर्षन्तः शरजालानि नानायुद्धविशारदाः
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः
तदस्त्रं भार्गवे द्रेण क्षिप्तं संग्राममूर्द्धनि
ततः क्रुद्धो महाभागो रामः शत्रुविदारणः