पश्यतोंऽतर्दधे तत्र रामस्य मुमहात्मनः
उपोद्धातपादे भर्गवचरिते सप्तत्रिंशत्तमो ऽध्यायः
समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः
समायातो भार्गवो ऽसीपुरीं महिष्मतीं प्रति
पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि
त्रिपुरस्य विनाशाय कृतो यत्नो महीपते
सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः
नमो ऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे
इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम्
दूत राजात्वया वाच्यो यदहं वच्मि ते ऽनघ
यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः
शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत्
इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा
तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम्
स राजात्रेयभक्तस्तु महाबलपराक्रमः
मया भुजबलेनैव दत्तदत्तेन मेदिनी
तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना
सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः
योत्स्ये रामेण भृगुणा विलंबो मा भवत्विति
सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत्
सूतोपनीतं स्वरथमारुरोह विशांपते
अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे
असंख्याता महाराज सैन्ये सागरसन्निभे
महावीरा महाकाया नानायुद्धविशारदाः
नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः
नानाज्ञातिसमुत्पन्ना हयाः पवनरंहसः
स्यन्दनानि सुदीर्घाणि जवनाश्वयुतानि च
पदातयस्तु राजन्ते खड्गचर्मधरा नृप
यदा प्रचलितं सैन्यं कार्त्तवीर्यार्जुनस्य वै
नानावादित्रनिर्घोषैर्हयानां ह्रेषितैस्तथा