तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधा तवेश
आराधयं नाथ भवानभिज्ञः किं ते ह विज्ञाप्यमिहास्ति लोके
उवाचागाधया वाचा मोहयन्निव मायया
कवचस्य स्तवस्यापि प्रभावादवधारय
साधयित्वा पितुर्वैरं कुरु निःक्षत्रियां महीम्
कृतकार्यो द्विजश्रेष्ट तं समापय मानद
चरिष्यति यथा कालं कर्त्ता हर्त्ता स्वयं प्रभुः
रामो नाम भविष्यामि चतुर्व्यूहः सनातनः
तदा कौशिकयज्ञं तु साधयित्वा सलक्ष्मणः
तत्रेशचापं निर्भज्य परिणीय विदेहजाम्
पश्यतोंऽतर्दधे तत्र रामस्य मुमहात्मनः
उपोद्धातपादे भर्गवचरिते सप्तत्रिंशत्तमो ऽध्यायः
समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः
समायातो भार्गवो ऽसीपुरीं महिष्मतीं प्रति
पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि
त्रिपुरस्य विनाशाय कृतो यत्नो महीपते
सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः
नमो ऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे
इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम्
दूत राजात्वया वाच्यो यदहं वच्मि ते ऽनघ
यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः
शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत्
इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा
तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम्
स राजात्रेयभक्तस्तु महाबलपराक्रमः
मया भुजबलेनैव दत्तदत्तेन मेदिनी
तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना
सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः
योत्स्ये रामेण भृगुणा विलंबो मा भवत्विति
सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत्