प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः
कृष्णस्य राधाकान्तस्य सिद्धिदम्
श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः
यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च
यावद्व्यरसींत्स मुनिस्तावत्स्वर्यानमागतम्
अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा
पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा
उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमो ऽध्यायः
जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम्
मोदमान उवाचेदं भार्गवं पुरतः स्थितम्
हितं वदामि यत्ते ऽद्य तत्कुरुष्व समाहितः
पदानि यत्र दृश्यन्ते न्यस्तानि सुमाहात्मना
पदाग्रात्क्रमतो लोकांस्तद्बलेस्तु विनिग्रहे
पठस्व नियमेनैव नियतो नियताशनः
शत्रूणां निग्रहार्थाय तच्च ते सिद्धिदं भवेत्
नमस्कृत्य मुनीं शान्तं निर्जगामाश्रमाद्बहिः
यत्रोत्तरात्पदन्यासान्निर्गता स्वर्णदी नृप
समभ्यस्यत्स्तवं दिव्यं कृष्मप्रेमामृताभिधम्
जगाम दर्शनं तस्य जामदग्न्यस्य भूपते
किरीटंनार्कवर्णेन कुण्डलाभ्यां च राजितः
मुरलीवादनपरः साक्षान्मोहनरूपधृक्
प्रणम्य दण्डवद्भमौ तुष्टाव प्रयतो विभुम्
ब्रह्मेशविष्ण्विद्रमुखस्तुताय नतो ऽस्मि नित्यं परमेश्वराय
तं त्वामनिर्देश्यमचं पुराममनन्तमीडे भव मे दयापरः
नाना विधा देवमनुष्यतिर्यग्यादः सु भूमेर्भरवारणाय
स्वयं समक्षंव्यभिचारदुष्टचित्तास्वपि प्रेमनिबद्धमानसम्
गताः स्वरूपं निखलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर
अचिन्त्यमव्यक्तमघौघनाशनं प्राप्तो ऽरणं प्रेमनिधानमादरात्
स्वप्ने ऽपि ते रूपमलौकिकंविभो पश्यन्ति नैवार्थनिबद्धवासनाः
नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति