नवनीतविलिप्ताङ्गो नवनीतनटो ऽनघः
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः
वत्सपालनसंचारी धेनुकासुरमर्द्दनः
उत्तालतालभेत्ता च तमालश्यामला कृतिः
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः
मधुहा मथुरानाथो द्वारकानाथको बली
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत्
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः
दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः
जलक्रीडासमासक्तगोपीवस्त्रापहारकः
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा
कृष्णप्रेमामृतं नाम परमानन्ददायकम्
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि
पुत्रप्रदमपुत्राणामगती नां गतिप्रदम्
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम्
अन्ते कृष्णस्मरणदं भवतापत्रयापहम्
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने
इमं मन्त्रं महादेवि जपन्नेव दिवा निशम्
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान्
एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो
आनन्द पूर्ण्णंबुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम्
धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते
भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान्