तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके
वसुंधरे वरारोहे जनानामस्ति मुक्तिदम्
महापातककोटिघ्न सर्वतीर्थफलप्रदम्
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम्
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः
पूतनाजीवितहरः शकटासुरभञ्जनः
नवनीतविलिप्ताङ्गो नवनीतनटो ऽनघः
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः
वत्सपालनसंचारी धेनुकासुरमर्द्दनः
उत्तालतालभेत्ता च तमालश्यामला कृतिः
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः
मधुहा मथुरानाथो द्वारकानाथको बली
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत्
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः
दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः
जलक्रीडासमासक्तगोपीवस्त्रापहारकः
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा
कृष्णप्रेमामृतं नाम परमानन्ददायकम्
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि