पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन्
ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः
याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम्
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ
सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः
कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम्
प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम्
वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम्
स्थानान्येतानि वर्णानां योग्याचारवतां सताम्
ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान्
आश्रमाश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः
कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते
निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभा षते
चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः
यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः
गुरुशुश्रूषणं भैक्ष्यंविद्यार्थी ब्रह्मचारिणः
उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम्
अप्रमादो ऽव्यवायश्च दया भूतेषु च क्षमा
दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभूवा
तेषां स्थानान्यशुष्मिं च संस्थिताना मचष्ट सः
स्मृतं तेषां तु यत् स्थानं तदेव गुरुवासिनाम्
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम्
स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु
पंथानः पितृयानास्तु समृताश्चत्वार एव ते
तथैव पितृयानानां चन्द्रमा द्वारमुच्यते
यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः
आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः
ततो ऽन्यां मानसीं सो ऽथ प्रजाः स्रष्टुं प्रचक्रमे
धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः